Original

यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते ।तथैव तृष्णा वित्तेन वर्धमानेन वर्धते ॥ ७ ॥

Segmented

यथा एव शृङ्गम् गोः काले वर्धमानस्य वर्धते तथा एव तृष्णा वित्तेन वर्धमानेन वर्धते

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
गोः गो pos=n,g=,c=6,n=s
काले काल pos=n,g=m,c=7,n=s
वर्धमानस्य वृध् pos=va,g=m,c=6,n=s,f=part
वर्धते वृध् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
वित्तेन वित्त pos=n,g=n,c=3,n=s
वर्धमानेन वृध् pos=va,g=n,c=3,n=s,f=part
वर्धते वृध् pos=v,p=3,n=s,l=lat