Original

युधिष्ठिर उवाच ।भ्रातरः पितरः पुत्रा ज्ञातयः सुहृदस्तथा ।अर्थहेतोर्हताः क्रूरैरस्माभिः पापबुद्धिभिः ॥ १ ॥

Segmented

युधिष्ठिर उवाच भ्रातरः पितरः पुत्रा ज्ञातयः सुहृदः तथा अर्थ-हेतोः हताः क्रूरैः अस्माभिः पाप-बुद्धि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पितरः पितृ pos=n,g=,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
अर्थ अर्थ pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
क्रूरैः क्रूर pos=a,g=m,c=3,n=p
अस्माभिः मद् pos=n,g=,c=3,n=p
पाप पाप pos=a,comp=y
बुद्धि बुद्धि pos=n,g=m,c=3,n=p