Original

रूपं गन्धं रसं स्पर्शं शब्दं चैतांस्तु तद्गुणान् ।इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते ॥ १५ ॥

Segmented

रूपम् गन्धम् रसम् स्पर्शम् शब्दम् च एतान् तु तद्-गुणान् इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञः तैः तु बुध्यते

Analysis

Word Lemma Parse
रूपम् रूप pos=n,g=n,c=2,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
रसम् रस pos=n,g=m,c=2,n=s
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
तु तु pos=i
तद् तद् pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
pos=i
बुध्यन्ते बुध् pos=v,p=3,n=p,l=lat
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=n,c=3,n=p
तु तु pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat