Original

राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद्द्विजः ।उञ्छवृत्तिरृषिः कश्चिद्यज्ञे यज्ञं समादधे ॥ ३ ॥

Segmented

राष्ट्रे धर्म-उत्तरे श्रेष्ठे विदर्भेषु अभवत् द्विजः उञ्छ-वृत्तिः ऋषिः कश्चिद् यज्ञे यज्ञम् समादधे

Analysis

Word Lemma Parse
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
धर्म धर्म pos=n,comp=y
उत्तरे उत्तर pos=a,g=n,c=7,n=s
श्रेष्ठे श्रेष्ठ pos=a,g=n,c=7,n=s
विदर्भेषु विदर्भ pos=n,g=m,c=7,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
द्विजः द्विज pos=n,g=m,c=1,n=s
उञ्छ उञ्छ pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
समादधे समाधा pos=v,p=3,n=s,l=lit