Original

देवतानां समावायमेकस्थं पितरं विदुः ।मर्त्यानां देवतानां च स्नेहादभ्येति मातरम् ॥ ४० ॥

Segmented

देवतानाम् समावायम् एकस्थम् पितरम् विदुः मर्त्यानाम् देवतानाम् च स्नेहाद् अभ्येति मातरम्

Analysis

Word Lemma Parse
देवतानाम् देवता pos=n,g=f,c=6,n=p
समावायम् समावाय pos=n,g=m,c=2,n=s
एकस्थम् एकस्थ pos=a,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
मातरम् मातृ pos=n,g=f,c=2,n=s