Original

एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम् ।पिता ह्यल्पतरं स्थानं चिन्तयिष्यामि मातरम् ॥ २३ ॥

Segmented

एतद् विचिन्तितम् तावत् पुत्रस्य पितृ-गौरवम् पिता हि अल्पतरम् स्थानम् चिन्तयिष्यामि मातरम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
विचिन्तितम् विचिन्तय् pos=va,g=n,c=1,n=s,f=part
तावत् तावत् pos=i
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पितृ पितृ pos=n,comp=y
गौरवम् गौरव pos=n,g=n,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
हि हि pos=i
अल्पतरम् अल्पतर pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
चिन्तयिष्यामि चिन्तय् pos=v,p=1,n=s,l=lrt
मातरम् मातृ pos=n,g=f,c=2,n=s