Original

युधिष्ठिर उवाच ।कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा ।सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः ॥ १ ॥

Segmented

युधिष्ठिर उवाच कथम् कार्यम् परीक्षेत शीघ्रम् वा अथ चिरेण वा सर्वथा कार्य-दुर्गे ऽस्मिन् भवान् नः परमो गुरुः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
परीक्षेत परीक्ष् pos=v,p=3,n=s,l=vidhilin
शीघ्रम् शीघ्रम् pos=i
वा वा pos=i
अथ अथ pos=i
चिरेण चिरेण pos=i
वा वा pos=i
सर्वथा सर्वथा pos=i
कार्य कार्य pos=n,comp=y
दुर्गे दुर्ग pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
परमो परम pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s