Original

वनस्पतीनोषधीश्च फलमूलं च ते विदुः ।न चैतानृत्विजो लुब्धा याजयन्ति धनार्थिनः ॥ २५ ॥

Segmented

वनस्पतीन् ओषधीः च फल-मूलम् च ते विदुः न च एतान् ऋत्विजो लुब्धा याजयन्ति धन-अर्थिनः

Analysis

Word Lemma Parse
वनस्पतीन् वनस्पति pos=n,g=m,c=2,n=p
ओषधीः ओषधि pos=n,g=f,c=2,n=p
pos=i
फल फल pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
pos=i
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
ऋत्विजो ऋत्विज् pos=n,g=m,c=1,n=p
लुब्धा लुभ् pos=va,g=m,c=1,n=p,f=part
याजयन्ति याजय् pos=v,p=3,n=p,l=lat
धन धन pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p