Original

सहायवान्द्रव्यवान्यः सुभगोऽन्योऽपरस्तथा ।ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत ।कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः ॥ २७ ॥

Segmented

सहायवान् द्रव्यवान् यः सुभगो ऽन्यो अपरः तथा ततस् तान् एव कवयः शास्त्रेषु प्रवदन्ति उत कीर्ति-अर्थम् अल्प-हृल्लेखाः पटवः कृत्स्न-निर्णयाः

Analysis

Word Lemma Parse
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
द्रव्यवान् द्रव्यवत् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सुभगो सुभग pos=a,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
अपरः अपर pos=n,g=m,c=1,n=s
तथा तथा pos=i
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
कवयः कवि pos=n,g=m,c=1,n=p
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
उत उत pos=i
कीर्ति कीर्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अल्प अल्प pos=a,comp=y
हृल्लेखाः हृल्लेख pos=n,g=m,c=1,n=p
पटवः पटु pos=a,g=m,c=1,n=p
कृत्स्न कृत्स्न pos=a,comp=y
निर्णयाः निर्णय pos=n,g=m,c=1,n=p