Original

अपि पापकृतो रौद्राः सत्यं कृत्वा पृथक्पृथक् ।अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः ।ते चेन्मिथोऽधृतिं कुर्युर्विनश्येयुरसंशयम् ॥ ११ ॥

Segmented

अपि पाप-कृतः रौद्राः सत्यम् कृत्वा पृथक् पृथक् अद्रोहम् अविसंवादम् प्रवर्तन्ते तद्-आश्रयाः ते चेद् मिथस् ऽधृतिम् कुर्युः विनश्येयुः असंशयम्

Analysis

Word Lemma Parse
अपि अपि pos=i
पाप पाप pos=n,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
रौद्राः रौद्र pos=a,g=m,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
अद्रोहम् अद्रोह pos=n,g=m,c=2,n=s
अविसंवादम् अविसंवाद pos=n,g=m,c=2,n=s
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
चेद् चेद् pos=i
मिथस् मिथस् pos=i
ऽधृतिम् अधृति pos=n,g=f,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
विनश्येयुः विनश् pos=v,p=3,n=p,l=vidhilin
असंशयम् असंशयम् pos=i