Original

एवं बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम् ।समवेक्ष्य शनैः सम्यग्लभते शममुत्तमम् ॥ ९ ॥

Segmented

एवम् बुद्ध्वा नरः सर्वाम् भूतानाम् आगतिम् गतिम् समवेक्ष्य शनैः सम्यग् लभते शमम् उत्तमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बुद्ध्वा बुध् pos=vi
नरः नर pos=n,g=m,c=1,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
आगतिम् आगति pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
समवेक्ष्य समवेक्ष् pos=vi
शनैः शनैस् pos=i
सम्यग् सम्यक् pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
शमम् शम pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s