Original

तेषां तु मनसा रश्मीन्यदा सम्यङ्नियच्छति ।तदा प्रकाशते ह्यात्मा घटे दीप इव ज्वलन् ।सर्वेषामेव भूतानां तमस्यपगते यथा ॥ १५ ॥

Segmented

तेषाम् तु मनसा रश्मीन् यदा सम्यङ् नियच्छति तदा प्रकाशते हि आत्मा घटे दीप इव ज्वलन् सर्वेषाम् एव भूतानाम् तमसि अपगते यथा

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=n,c=6,n=p
तु तु pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
यदा यदा pos=i
सम्यङ् सम्यक् pos=i
नियच्छति नियम् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
हि हि pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
घटे घट pos=n,g=m,c=7,n=s
दीप दीप pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
तमसि तमस् pos=n,g=n,c=7,n=s
अपगते अपगम् pos=va,g=n,c=7,n=s,f=part
यथा यथा pos=i