Original

दानं हि भूताभयदक्षिणायाः सर्वाणि दानान्यधितिष्ठतीह ।तीक्ष्णां तनुं यः प्रथमं जहाति सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः ॥ २६ ॥

Segmented

दानम् हि भूत-अभय-दक्षिणायाः सर्वाणि दानानि अधितिष्ठति इह तीक्ष्णाम् तनुम् यः प्रथमम् जहाति सो ऽनन्तम् आप्नोति अभयम् प्रजाभ्यः

Analysis

Word Lemma Parse
दानम् दान pos=n,g=n,c=1,n=s
हि हि pos=i
भूत भूत pos=n,comp=y
अभय अभय pos=n,comp=y
दक्षिणायाः दक्षिणा pos=n,g=f,c=6,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
दानानि दान pos=n,g=n,c=2,n=p
अधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat
इह इह pos=i
तीक्ष्णाम् तीक्ष्ण pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रथमम् प्रथमम् pos=i
जहाति हा pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽनन्तम् अनन्त pos=a,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
अभयम् अभय pos=n,g=n,c=2,n=s
प्रजाभ्यः प्रजा pos=n,g=f,c=5,n=p