Original

केचित्पुरुषकारं तु प्राहुः कर्मविदो जनाः ।दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः ॥ ५० ॥

Segmented

केचित् पुरुषकारम् तु प्राहुः कर्म-विदः जनाः दैवम् इति अपरे विप्राः स्वभावम् भूत-चिन्तकाः

Analysis

Word Lemma Parse
केचित् कश्चित् pos=n,g=m,c=1,n=p
पुरुषकारम् पुरुषकार pos=n,g=m,c=2,n=s
तु तु pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
कर्म कर्मन् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
दैवम् दैव pos=n,g=n,c=1,n=s
इति इति pos=i
अपरे अपर pos=n,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
स्वभावम् स्वभाव pos=n,g=m,c=2,n=s
भूत भूत pos=n,comp=y
चिन्तकाः चिन्तक pos=a,g=m,c=1,n=p