Original

पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः ।चक्रतुस्तौ कथाशीलौ शुचिसंहृष्टमानसौ ।पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ ॥ ९ ॥

Segmented

पुण्य-कर्मभिः आख्याता देवर्षि-कथिताः कथाः चक्रतुः तौ कथा-शीलौ शुचि-संहृषित-मानसौ पूर्व-वृत्त-व्यपेतानि कथयन्तौ समाहितौ

Analysis

Word Lemma Parse
पुण्य पुण्य pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
आख्याता आख्या pos=va,g=f,c=2,n=p,f=part
देवर्षि देवर्षि pos=n,comp=y
कथिताः कथय् pos=va,g=f,c=2,n=p,f=part
कथाः कथा pos=n,g=f,c=2,n=p
चक्रतुः कृ pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
कथा कथा pos=n,comp=y
शीलौ शील pos=n,g=m,c=1,n=d
शुचि शुचि pos=a,comp=y
संहृषित संहृष् pos=va,comp=y,f=part
मानसौ मानस pos=n,g=m,c=1,n=d
पूर्व पूर्व pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
व्यपेतानि व्यपे pos=va,g=n,c=2,n=p,f=part
कथयन्तौ कथय् pos=va,g=m,c=1,n=d,f=part
समाहितौ समाहित pos=a,g=m,c=1,n=d