Original

तच्चास्य कर्म पूज्यं हि प्रशस्यं च विशां पते ।तेन चेन्द्रत्वमापेदे देवानामिति नः श्रुतम् ॥ १२ ॥

Segmented

तत् च अस्य कर्म पूज्यम् हि प्रशस्यम् च विशाम् पते तेन च इन्द्र-त्वम् आपेदे देवानाम् इति नः श्रुतम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
पूज्यम् पूजय् pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
प्रशस्यम् प्रशंस् pos=va,g=n,c=1,n=s,f=krtya
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
pos=i
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आपेदे आपद् pos=v,p=3,n=s,l=lit
देवानाम् देव pos=n,g=m,c=6,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part