Original

भीष्म उवाच ।शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः ।स्वरूपिणीं शरीराद्धि तदा निष्क्रामतीं श्रियम् ॥ १ ॥

Segmented

भीष्म उवाच शतक्रतुः अथ अपश्यत् बलेः दीप्ताम् महात्मनः स्वरूपिणीम् शरीरात् हि तदा निष्क्रामतीम् श्रियम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
बलेः बलि pos=n,g=m,c=6,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
स्वरूपिणीम् स्वरूपिन् pos=a,g=f,c=2,n=s
शरीरात् शरीर pos=n,g=n,c=5,n=s
हि हि pos=i
तदा तदा pos=i
निष्क्रामतीम् निष्क्रम् pos=va,g=f,c=2,n=s,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s