Original

स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा ।शुभाशुभास्तदा तत्र तस्य किं मानकारणम् ॥ २२ ॥

Segmented

स्वभाव-प्रेरिताः सर्वे निविशन्ते गुणा यदा शुभ-अशुभाः तदा तत्र तस्य किम् मान-कारणम्

Analysis

Word Lemma Parse
स्वभाव स्वभाव pos=n,comp=y
प्रेरिताः प्रेरय् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
निविशन्ते निविश् pos=v,p=3,n=p,l=lat
गुणा गुण pos=n,g=m,c=1,n=p
यदा यदा pos=i
शुभ शुभ pos=a,comp=y
अशुभाः अशुभ pos=a,g=m,c=1,n=p
तदा तदा pos=i
तत्र तत्र pos=i
तस्य तद् pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
मान मान pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s