Original

इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः ।प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ॥ ९ ॥

Segmented

इन्द्रियाणि इन्द्रिय-अर्थाः च स्वभावः चेतना मनः प्राण-अपानौ विकारः च धातवः च अत्र निःसृताः

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
pos=i
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
चेतना चेतना pos=n,g=f,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=1,n=d
विकारः विकार pos=n,g=m,c=1,n=s
pos=i
धातवः धातु pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
निःसृताः निःसृ pos=va,g=m,c=1,n=p,f=part