Original

यथेह नियतं कालो दर्शयत्यार्तवान्गुणान् ।तद्वद्भूतेष्वहंकारं विद्याद्भूतप्रवर्तकम् ॥ २० ॥

Segmented

यथा इह नियतम् कालो दर्शयति आर्तवान् गुणान् तद्वद् भूतेषु अहंकारम् विद्याद् भूत-प्रवर्तकम्

Analysis

Word Lemma Parse
यथा यथा pos=i
इह इह pos=i
नियतम् नियतम् pos=i
कालो काल pos=n,g=m,c=1,n=s
दर्शयति दर्शय् pos=v,p=3,n=s,l=lat
आर्तवान् आर्तव pos=a,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
तद्वद् तद्वत् pos=i
भूतेषु भूत pos=n,g=n,c=7,n=p
अहंकारम् अहंकार pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
भूत भूत pos=n,comp=y
प्रवर्तकम् प्रवर्तक pos=a,g=m,c=2,n=s