Original

कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम् ।शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः ।चरणावुपसंगृह्य स्थितः प्राञ्जलिरब्रवीत् ॥ ३ ॥

Segmented

कश्चिद् ब्राह्मणम् आसीनम् आचार्यम् ऋषि-सत्तमम् शिष्यः परम-मेधावी श्रेयः-अर्थी सु समाहितः चरणौ उपसंगृह्य स्थितः प्राञ्जलिः अब्रवीत्

Analysis

Word Lemma Parse
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
श्रेयः श्रेयस् pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
उपसंगृह्य उपसंग्रह् pos=vi
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan