Original

अश्विनौ तु मतौ शूद्रौ तपस्युग्रे समाहितौ ।स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः ।इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् ॥ २३ ॥

Segmented

अश्विनौ तु मतौ शूद्रौ तपसि उग्रे समाहितौ स्मृताः तु अङ्गिरसः देवा ब्राह्मणा इति निश्चयः इति एतत् सर्व-देवानाम् चातुर्वर्ण्यम् प्रकीर्तितम्

Analysis

Word Lemma Parse
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
तु तु pos=i
मतौ मन् pos=va,g=m,c=1,n=d,f=part
शूद्रौ शूद्र pos=n,g=m,c=1,n=d
तपसि तपस् pos=n,g=n,c=7,n=s
उग्रे उग्र pos=a,g=n,c=7,n=s
समाहितौ समाहित pos=a,g=m,c=1,n=d
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
देवानाम् देव pos=n,g=m,c=6,n=p
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=1,n=s
प्रकीर्तितम् प्रकीर्तय् pos=va,g=n,c=1,n=s,f=part