Original

स्वभावसिद्ध्या संसिद्धान्स नित्यं सृजते गुणान् ।ऊर्णनाभिर्यथा स्रष्टा विज्ञेयास्तन्तुवद्गुणाः ॥ ४८ ॥

Segmented

स्वभाव-सिद्ध्या संसिद्धान् स नित्यम् सृजते गुणान् ऊर्णनाभिः यथा स्रष्टा विज्ञेयाः तन्तु-वत् गुणाः

Analysis

Word Lemma Parse
स्वभाव स्वभाव pos=n,comp=y
सिद्ध्या सिद्धि pos=n,g=f,c=3,n=s
संसिद्धान् संसिध् pos=va,g=m,c=2,n=p,f=part
तद् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
सृजते सृज् pos=v,p=3,n=s,l=lat
गुणान् गुण pos=n,g=m,c=2,n=p
ऊर्णनाभिः ऊर्णनाभि pos=n,g=m,c=1,n=s
यथा यथा pos=i
स्रष्टा स्रष्टृ pos=n,g=m,c=1,n=s
विज्ञेयाः विज्ञा pos=va,g=m,c=1,n=p,f=krtya
तन्तु तन्तु pos=n,comp=y
वत् वत् pos=i
गुणाः गुण pos=n,g=m,c=1,n=p