Original

भृगुरुवाच ।वानप्रस्थाः खलु ऋषिधर्ममनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्रवणानि सुविविक्तेष्वरण्येषु मृगमहिषवराहसृमरगजाकीर्णेषु तपस्यन्तोऽनुसंचरन्ति ।त्यक्तग्राम्यवस्त्राहारोपभोगा वन्यौषधिमूलफलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नहोमबलिकालानुष्ठायिनः समित्कुशकुसुमोपहारहोमार्जनलब्धविश्रामाः शीतोष्णपवननिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्याविहितधर्मानुष्ठानहृतमांसशोणितास्त्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहन्ति ॥ १ ॥

Segmented

भृगुः उवाच

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit