Original

एवं सर्वेषु भूतेषु गूढश्चरति संवृतः ।दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः ॥ २७ ॥

Segmented

एवम् सर्वेषु भूतेषु गूढः चरति संवृतः दृश्यते तु अग्र्यया बुद्ध्या सूक्ष्मया तत्त्व-दर्शिभिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
गूढः गुह् pos=va,g=m,c=1,n=s,f=part
चरति चर् pos=v,p=3,n=s,l=lat
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तु तु pos=i
अग्र्यया अग्र्य pos=a,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
सूक्ष्मया सूक्ष्म pos=a,g=f,c=3,n=s
तत्त्व तत्त्व pos=n,comp=y
दर्शिभिः दर्शिन् pos=a,g=m,c=3,n=p