Original

भरद्वाज उवाच ।यदि प्राणायते वायुर्वायुरेव विचेष्टते ।श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः ॥ १ ॥

Segmented

भरद्वाज उवाच यदि प्राणायते वायुः वायुः एव विचेष्टते श्वसिति आभाषते च एव तस्मात् जीवः निरर्थकः

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
प्राणायते प्राणाय् pos=v,p=3,n=s,l=lat
वायुः वायु pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
एव एव pos=i
विचेष्टते विचेष्ट् pos=v,p=3,n=s,l=lat
श्वसिति श्वस् pos=v,p=3,n=s,l=lat
आभाषते आभाष् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
तस्मात् तस्मात् pos=i
जीवः जीव pos=n,g=m,c=1,n=s
निरर्थकः निरर्थक pos=a,g=m,c=1,n=s