Original

पक्वाशयस्त्वधो नाभेरूर्ध्वमामाशयः स्थितः ।नाभिमध्ये शरीरस्य सर्वे प्राणाः समाहिताः ॥ १४ ॥

Segmented

पक्वाशयः तु अधस् नाभेः ऊर्ध्वम् आमाशयः स्थितः नाभि-मध्ये शरीरस्य सर्वे प्राणाः समाहिताः

Analysis

Word Lemma Parse
पक्वाशयः पक्वाशय pos=n,g=m,c=1,n=s
तु तु pos=i
अधस् अधस् pos=i
नाभेः नाभि pos=n,g=f,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
आमाशयः आमाशय pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
नाभि नाभि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राणाः प्राण pos=n,g=m,c=1,n=p
समाहिताः समाधा pos=va,g=m,c=1,n=p,f=part