Original

रात्र्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा ।गाधोदके मत्स्य इव सुखं विन्देत कस्तदा ।तदेव वन्ध्यं दिवसमिति विद्याद्विचक्षणः ॥ ११ ॥

Segmented

रात्र्याम् रात्र्याम् व्यतीतायाम् आयुः अल्पतरम् यदा गाध-उदके मत्स्य इव सुखम् विन्देत कः तदा तद् एव वन्ध्यम् दिवसम् इति विद्याद् विचक्षणः

Analysis

Word Lemma Parse
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
आयुः आयुस् pos=n,g=n,c=1,n=s
अल्पतरम् अल्पतर pos=a,g=n,c=1,n=s
यदा यदा pos=i
गाध गाध pos=a,comp=y
उदके उदक pos=n,g=n,c=7,n=s
मत्स्य मत्स्य pos=n,g=m,c=1,n=s
इव इव pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
विन्देत विद् pos=v,p=3,n=s,l=vidhilin
कः pos=n,g=m,c=1,n=s
तदा तदा pos=i
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
वन्ध्यम् वन्ध्य pos=a,g=m,c=2,n=s
दिवसम् दिवस pos=n,g=m,c=2,n=s
इति इति pos=i
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s