Original

एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान् ।दस्यूनां दीयतामेष कृतघ्नोऽद्यैव राक्षसाः ॥ २१ ॥

Segmented

एवम् अस्तु इति तान् आह राक्षस-इन्द्रः निशाचरान् दस्यूनाम् दीयताम् एष कृतघ्नो अद्य एव राक्षसाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तान् तद् pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
निशाचरान् निशाचर pos=n,g=m,c=2,n=p
दस्यूनाम् दस्यु pos=n,g=m,c=6,n=p
दीयताम् दा pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
कृतघ्नो कृतघ्न pos=a,g=m,c=1,n=s
अद्य अद्य pos=i
एव एव pos=i
राक्षसाः राक्षस pos=n,g=m,c=8,n=p