Original

ततो जाम्बूनदाः पात्रीर्वज्राङ्का विमलाः शुभाः ।वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृताप्लुताः ॥ १४ ॥

Segmented

ततो जाम्बूनदाः पात्रीः वज्र-अङ्काः विमलाः शुभाः वर-अन्न-पूर्णाः विप्रेभ्यः प्रादात् मधु-घृत-आप्लुताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
जाम्बूनदाः जाम्बूनद pos=a,g=f,c=2,n=p
पात्रीः पात्री pos=n,g=f,c=2,n=p
वज्र वज्र pos=n,comp=y
अङ्काः अङ्क pos=n,g=f,c=2,n=p
विमलाः विमल pos=a,g=f,c=2,n=p
शुभाः शुभ pos=a,g=f,c=2,n=p
वर वर pos=a,comp=y
अन्न अन्न pos=n,comp=y
पूर्णाः पृ pos=va,g=f,c=2,n=p,f=part
विप्रेभ्यः विप्र pos=n,g=m,c=4,n=p
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
मधु मधु pos=n,comp=y
घृत घृत pos=n,comp=y
आप्लुताः आप्लु pos=va,g=f,c=2,n=p,f=part