Original

तत्रासीनस्य कौरव्य गौतमस्य सुखः शिवः ।पुष्पाणि समुपस्पृश्य प्रववावनिलः शुचिः ।ह्लादयन्सर्वगात्राणि गौतमस्य तदा नृप ॥ १५ ॥

Segmented

तत्र आसीनस्य कौरव्य गौतमस्य सुखः शिवः पुष्पाणि समुपस्पृश्य प्रववौ अनिलः शुचिः ह्लादयन् सर्व-गात्राणि गौतमस्य तदा नृप

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आसीनस्य आस् pos=va,g=m,c=6,n=s,f=part
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
गौतमस्य गौतम pos=n,g=m,c=6,n=s
सुखः सुख pos=a,g=m,c=1,n=s
शिवः शिव pos=a,g=m,c=1,n=s
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
समुपस्पृश्य समुपस्पृस् pos=vi
प्रववौ प्रवा pos=v,p=3,n=s,l=lit
अनिलः अनिल pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
ह्लादयन् ह्लादय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
गात्राणि गात्र pos=n,g=n,c=2,n=p
गौतमस्य गौतम pos=n,g=m,c=6,n=s
तदा तदा pos=i
नृप नृप pos=n,g=m,c=8,n=s