Original

पेतुरुल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ।अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ।मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा ॥ ४० ॥

Segmented

पेतुः उल्का महा-उत्पाताः शाखाः च मुमुचुः द्रुमाः अप्रसन्ना दिशः सर्वाः पवनः च अशिवः ववौ मुहुः मुहुः च भूतानि प्राव्यथन्त भयात् तथा

Analysis

Word Lemma Parse
पेतुः पत् pos=v,p=3,n=p,l=lit
उल्का उल्का pos=n,g=f,c=1,n=p
महा महत् pos=a,comp=y
उत्पाताः उत्पात pos=n,g=m,c=1,n=p
शाखाः शाखा pos=n,g=f,c=2,n=p
pos=i
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
अप्रसन्ना अप्रसन्न pos=a,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
पवनः पवन pos=n,g=m,c=1,n=s
pos=i
अशिवः अशिव pos=a,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
प्राव्यथन्त प्रव्यथ् pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s
तथा तथा pos=i