Original

तत्त्वं शृणुष्व माद्रेय यदेतत्परिपृच्छसि ।प्रबोधितोऽस्मि भवता धातुमानिव पर्वतः ॥ १० ॥

Segmented

तत् त्वम् शृणुष्व माद्रेय यद् एतत् परिपृच्छसि प्रबोधितो ऽस्मि भवता धातुमान् इव पर्वतः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
माद्रेय माद्रेय pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat
प्रबोधितो प्रबोधय् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भवता भवत् pos=a,g=m,c=3,n=s
धातुमान् धातुमत् pos=a,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s