Original

एवं यो राजशार्दूल दुर्बलः सन्बलीयसा ।वैरमासज्जते बालस्तप्यते शल्मलिर्यथा ॥ २६ ॥

Segmented

एवम् यो राज-शार्दूल दुर्बलः सन् बलीयसा वैरम् आसज्जते बालः तप्यते शल्मलिः यथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
यो यद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
आसज्जते आसञ्ज् pos=v,p=3,n=s,l=lat
बालः बाल pos=a,g=m,c=1,n=s
तप्यते तप् pos=v,p=3,n=s,l=lat
शल्मलिः शल्मलि pos=n,g=m,c=1,n=s
यथा यथा pos=i