Original

सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् ।पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ॥ २६ ॥

Segmented

सूक्ष्म-योनीनि भूतानि तर्क-गम्यानि कानिचित् पक्ष्मणो ऽपि निपातेन येषाम् स्यात् स्कन्ध-पर्ययः

Analysis

Word Lemma Parse
सूक्ष्म सूक्ष्म pos=a,comp=y
योनीनि योनि pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
तर्क तर्क pos=n,comp=y
गम्यानि गम् pos=va,g=n,c=1,n=p,f=krtya
कानिचित् कश्चित् pos=n,g=n,c=1,n=p
पक्ष्मणो पक्ष्मन् pos=n,g=n,c=6,n=s
ऽपि अपि pos=i
निपातेन निपात pos=n,g=m,c=3,n=s
येषाम् यद् pos=n,g=n,c=6,n=p
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
स्कन्ध स्कन्ध pos=n,comp=y
पर्ययः पर्यय pos=n,g=m,c=1,n=s