Original

भीष्म उवाच ।इत्युक्तास्तं सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः ।दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहान् ॥ ७९ ॥

Segmented

भीष्म उवाच इति उक्ताः तम् सुतम् त्यक्त्वा भूमौ शोक-परिप्लुताः दह्यमानाः सुत-स्नेहात् प्रययुः बान्धवा गृहान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
भूमौ भूमि pos=n,g=f,c=7,n=s
शोक शोक pos=n,comp=y
परिप्लुताः परिप्लु pos=va,g=m,c=1,n=p,f=part
दह्यमानाः दह् pos=va,g=m,c=1,n=p,f=part
सुत सुत pos=n,comp=y
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
प्रययुः प्रया pos=v,p=3,n=p,l=lit
बान्धवा बान्धव pos=n,g=m,c=1,n=p
गृहान् गृह pos=n,g=m,c=2,n=p