Original

मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः ।मयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम् ॥ ५८ ॥

Segmented

मोक्ष-धर्म-आश्रितैः वाक्यैः हेतुमद्भिः अनिष्ठुरैः मया उक्ताः गच्छत क्षिप्रम् स्वम् स्वम् एव निवेशनम्

Analysis

Word Lemma Parse
मोक्ष मोक्ष pos=n,comp=y
धर्म धर्म pos=n,comp=y
आश्रितैः आश्रि pos=va,g=n,c=3,n=p,f=part
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
हेतुमद्भिः हेतुमत् pos=a,g=n,c=3,n=p
अनिष्ठुरैः अनिष्ठुर pos=a,g=n,c=3,n=p
मया मद् pos=n,g=,c=3,n=s
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
गच्छत गम् pos=v,p=2,n=p,l=lot
क्षिप्रम् क्षिप्रम् pos=i
स्वम् स्व pos=a,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
एव एव pos=i
निवेशनम् निवेशन pos=n,g=n,c=2,n=s