Original

बृहस्पतिरुवाच ।कृत्वा पापं पूर्वमबुद्धिपूर्वं पुण्यानि यः कुरुते बुद्धिपूर्वम् ।स तत्पापं नुदते पुण्यशीलो वासो यथा मलिनं क्षारयुक्त्या ॥ ३० ॥

Segmented

बृहस्पतिः उवाच कृत्वा पापम् पूर्वम् अबुद्धि-पूर्वम् पुण्यानि यः कुरुते बुद्धि-पूर्वम् स तत् पापम् नुदते पुण्य-शीलः वासो यथा मलिनम् क्षार-युक्त्या

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृत्वा कृ pos=vi
पापम् पाप pos=n,g=n,c=2,n=s
पूर्वम् पूर्वम् pos=i
अबुद्धि अबुद्धि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
बुद्धि बुद्धि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
नुदते नुद् pos=v,p=3,n=s,l=lat
पुण्य पुण्य pos=a,comp=y
शीलः शील pos=n,g=m,c=1,n=s
वासो वासस् pos=n,g=n,c=2,n=s
यथा यथा pos=i
मलिनम् मलिन pos=a,g=n,c=2,n=s
क्षार क्षार pos=n,comp=y
युक्त्या युक्ति pos=n,g=f,c=3,n=s