Original

आसीद्राजा महावीर्यः पारिक्षिज्जनमेजयः ।अबुद्धिपूर्वं ब्रह्महत्या तमागच्छन्महीपतिम् ॥ ३ ॥

Segmented

आसीद् राजा महा-वीर्यः पारिक्षित् जनमेजयः अबुद्धि-पूर्वम् ब्रह्म-हत्या तम् आगच्छत् महीपतिम्

Analysis

Word Lemma Parse
आसीद् अस् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
पारिक्षित् पारिक्षित् pos=n,g=m,c=1,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
अबुद्धि अबुद्धि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आगच्छत् आगम् pos=v,p=3,n=s,l=lan
महीपतिम् महीपति pos=n,g=m,c=2,n=s