Original

या देवतासु वृत्तिस्ते सास्तु विप्रेषु सर्वदा ।क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप ॥ ३६ ॥

Segmented

या देवतासु वृत्तिः ते सा अस्तु विप्रेषु सर्वदा क्रुद्धैः हि विप्रैः कर्माणि कृतानि बहुधा नृप

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
देवतासु देवता pos=n,g=f,c=7,n=p
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
विप्रेषु विप्र pos=n,g=m,c=7,n=p
सर्वदा सर्वदा pos=i
क्रुद्धैः क्रुध् pos=va,g=m,c=3,n=p,f=part
हि हि pos=i
विप्रैः विप्र pos=n,g=m,c=3,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
बहुधा बहुधा pos=i
नृप नृप pos=n,g=m,c=8,n=s