Original

कालेन रिपुणा संधिः काले मित्रेण विग्रहः ।कार्य इत्येव तत्त्वज्ञाः प्राहुर्नित्यं युधिष्ठिर ॥ १९८ ॥

Segmented

कालेन रिपुणा संधिः काले मित्रेण विग्रहः कार्य इति एव तत्त्व-ज्ञाः प्राहुः नित्यम् युधिष्ठिर

Analysis

Word Lemma Parse
कालेन काल pos=n,g=m,c=3,n=s
रिपुणा रिपु pos=n,g=m,c=3,n=s
संधिः संधि pos=n,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
मित्रेण मित्र pos=n,g=m,c=3,n=s
विग्रहः विग्रह pos=n,g=m,c=1,n=s
कार्य कृ pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
एव एव pos=i
तत्त्व तत्त्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
नित्यम् नित्यम् pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s