Original

आसीत्तावत्तु मैत्री नौ यावद्धेतुरभूत्पुरा ।सा गता सह तेनैव कालयुक्तेन हेतुना ॥ १५५ ॥

Segmented

आसीत् तावत् तु मैत्री नौ यावत् हेतुः अभूत् पुरा सा गता सह तेन एव काल-युक्तेन हेतुना

Analysis

Word Lemma Parse
आसीत् अस् pos=v,p=3,n=s,l=lan
तावत् तावत् pos=i
तु तु pos=i
मैत्री मैत्री pos=n,g=f,c=1,n=s
नौ मद् pos=n,g=,c=6,n=d
यावत् यावत् pos=i
हेतुः हेतु pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
पुरा पुरा pos=i
सा तद् pos=n,g=f,c=1,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
सह सह pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
काल काल pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
हेतुना हेतु pos=n,g=m,c=3,n=s