Original

यन्मित्रं भीतवत्साध्यं यन्मित्रं भयसंहितम् ।सुरक्षितं ततः कार्यं पाणिः सर्पमुखादिव ॥ १०२ ॥

Segmented

यत् मित्रम् भीत-वत् साध्यम् यत् मित्रम् भय-संहितम् सु रक्षितम् ततः कार्यम् पाणिः सर्प-मुखात् इव

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
भीत भी pos=va,comp=y,f=part
वत् वत् pos=i
साध्यम् साधय् pos=va,g=n,c=1,n=s,f=krtya
यत् यद् pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
भय भय pos=n,comp=y
संहितम् संधा pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
ततः ततस् pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
पाणिः पाणि pos=n,g=m,c=1,n=s
सर्प सर्प pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
इव इव pos=i