Original

यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ ।धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः ।यथा यथास्य वहतः सहायाः स्युस्तथापरे ॥ १४ ॥

Segmented

यथा सम-धुरौ दम्यौ सु दान्तौ साधु-वाहिनः धुरम् उद्यम्य वहतः तथा वर्तेत वै नृपः यथा यथा अस्य वहतः सहायाः स्युः तथा अपरे

Analysis

Word Lemma Parse
यथा यथा pos=i
सम सम pos=n,comp=y
धुरौ धुर pos=n,g=m,c=1,n=d
दम्यौ दम्य pos=n,g=m,c=1,n=d
सु सु pos=i
दान्तौ दम् pos=va,g=m,c=1,n=d,f=part
साधु साधु pos=a,comp=y
वाहिनः वाहिन् pos=a,g=m,c=1,n=d
धुरम् धुर pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
वहतः वह् pos=v,p=3,n=d,l=lat
तथा तथा pos=i
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
नृपः नृप pos=n,g=m,c=1,n=s
यथा यथा pos=i
यथा यथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वहतः वह् pos=va,g=m,c=6,n=s,f=part
सहायाः सहाय pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p