Original

तस्मिन्गते महाश्वेतः शरीरात्तस्य निर्ययौ ।पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः ।इत्युक्त्वा च ययौ तत्र यतो वृत्तं नराधिप ॥ ५३ ॥

Segmented

तस्मिन् गते महा-श्वेतः शरीरात् तस्य निर्ययौ पृष्टः च आह बलम् विद्धि यतो वृत्तम् अहम् ततः इति उक्त्वा च ययौ तत्र यतो वृत्तम् नराधिप

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
श्वेतः श्वेत pos=a,g=m,c=1,n=s
शरीरात् शरीर pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
आह अह् pos=v,p=3,n=s,l=lit
बलम् बल pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
यतो यतस् pos=i
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
ततः ततस् pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
pos=i
ययौ या pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
यतो यतस् pos=i
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s