Original

धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम् ।समाचिन्वन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥ ३५ ॥

Segmented

धर्म-आत्मानम् जित-क्रोधम् संयतम् संयत-इन्द्रियम् समाचिन्वन्ति शास्तारः क्षौद्रम् मधु इव मक्षिकाः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
जित जि pos=va,comp=y,f=part
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
संयतम् संयम् pos=va,g=m,c=2,n=s,f=part
संयत संयम् pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
समाचिन्वन्ति समाचि pos=v,p=3,n=p,l=lat
शास्तारः शास्तृ pos=n,g=m,c=1,n=p
क्षौद्रम् क्षौद्र pos=n,g=n,c=2,n=s
मधु मधु pos=n,g=n,c=2,n=s
इव इव pos=i
मक्षिकाः मक्षिका pos=n,g=f,c=1,n=p