Original

प्रीतिप्रवृत्तौ विनिवर्तने तथा सुहृत्सु विज्ञाय निवृत्य चोभयोः ।यदेव मित्रं गुरुभारमावहेत्तदेव सुस्निग्धमुदाहरेद्बुधः ॥ ५३ ॥

Segmented

प्रीति-प्रवृत्तौ विनिवर्तने तथा सुहृत्सु विज्ञाय निवृत्य च उभयोः यद् एव मित्रम् गुरु-भारम् आवहेत् तद् एव सु स्निग्धम् उदाहरेद् बुधः

Analysis

Word Lemma Parse
प्रीति प्रीति pos=n,comp=y
प्रवृत्तौ प्रवृत्ति pos=n,g=f,c=7,n=s
विनिवर्तने विनिवर्तन pos=n,g=n,c=7,n=s
तथा तथा pos=i
सुहृत्सु सुहृद् pos=n,g=,c=7,n=p
विज्ञाय विज्ञा pos=vi
निवृत्य निवृत् pos=vi
pos=i
उभयोः उभय pos=a,g=n,c=7,n=d
यद् यद् pos=n,g=n,c=2,n=s
एव एव pos=i
मित्रम् मित्र pos=n,g=n,c=2,n=s
गुरु गुरु pos=a,comp=y
भारम् भार pos=n,g=m,c=2,n=s
आवहेत् आवह् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
सु सु pos=i
स्निग्धम् स्निग्ध pos=a,g=n,c=2,n=s
उदाहरेद् उदाहृ pos=v,p=3,n=s,l=vidhilin
बुधः बुध pos=a,g=m,c=1,n=s