Original

तस्माद्राजा प्रगृहीतः परेषु मूलं लक्ष्म्याः सर्वतोऽभ्याददीत ।दीर्घं कालमपि संपीड्यमानो विद्युत्संपातमिव मानोर्जितः स्यात् ॥ ४२ ॥

Segmented

तस्माद् राजा प्रगृहीतः परेषु मूलम् लक्ष्म्याः सर्वतो ऽभ्याददीत दीर्घम् कालम् अपि सम्पीड्यमानो विद्युत्-संपातम् इव मान-ऊर्जितः स्यात्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रगृहीतः प्रग्रह् pos=va,g=m,c=1,n=s,f=part
परेषु पर pos=n,g=m,c=7,n=p
मूलम् मूल pos=n,g=n,c=2,n=s
लक्ष्म्याः लक्ष्मी pos=n,g=f,c=6,n=s
सर्वतो सर्वतस् pos=i
ऽभ्याददीत अभ्यादा pos=v,p=3,n=s,l=vidhilin
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
अपि अपि pos=i
सम्पीड्यमानो सम्पीडय् pos=va,g=m,c=1,n=s,f=part
विद्युत् विद्युत् pos=n,comp=y
संपातम् सम्पात pos=n,g=m,c=2,n=s
इव इव pos=i
मान मान pos=n,comp=y
ऊर्जितः ऊर्जय् pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin