Original

कोशाक्षपटलं यस्य कोशवृद्धिकरैर्जनैः ।आप्तैस्तुष्टैश्च सततं धार्यते स नृपोत्तमः ॥ १९ ॥

Segmented

कोश-अक्षपटलम् यस्य कोश-वृद्धि-करैः जनैः आप्तैः तुष्टैः च सततम् धार्यते स नृप-उत्तमः

Analysis

Word Lemma Parse
कोश कोश pos=n,comp=y
अक्षपटलम् अक्षपटल pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
कोश कोश pos=n,comp=y
वृद्धि वृद्धि pos=n,comp=y
करैः कर pos=a,g=m,c=3,n=p
जनैः जन pos=n,g=m,c=3,n=p
आप्तैः आप्त pos=n,g=m,c=3,n=p
तुष्टैः तुष् pos=va,g=m,c=3,n=p,f=part
pos=i
सततम् सततम् pos=i
धार्यते धारय् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s