Original

सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा ।अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः ।अभिविष्यन्दते श्रीर्हि सत्यपि द्विषतो जनात् ॥ ३३ ॥

Segmented

सहस्व श्रियम् अन्येषाम् यदि अपि त्वयि न अस्ति सा अन्यत्र अपि सतीम् लक्ष्मीम् कुशला भुञ्जते जनाः अभिविष्यन्दते श्रीः हि सती अपि द्विषतो जनात्

Analysis

Word Lemma Parse
सहस्व सह् pos=v,p=2,n=s,l=lot
श्रियम् श्री pos=n,g=f,c=2,n=s
अन्येषाम् अन्य pos=n,g=n,c=6,n=p
यदि यदि pos=i
अपि अपि pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
अन्यत्र अन्यत्र pos=i
अपि अपि pos=i
सतीम् सत् pos=a,g=f,c=2,n=s
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
कुशला कुशल pos=a,g=m,c=1,n=p
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
जनाः जन pos=n,g=m,c=1,n=p
अभिविष्यन्दते अभिविष्यन्द् pos=v,p=3,n=s,l=lat
श्रीः श्री pos=n,g=f,c=1,n=s
हि हि pos=i
सती सत् pos=a,g=f,c=1,n=s
अपि अपि pos=i
द्विषतो द्विष् pos=va,g=m,c=5,n=s,f=part
जनात् जन pos=n,g=m,c=5,n=s